"संस्कृतं संगणकीयम् "-एतत् तु वैज्ञानिकतया विवेचनीयम्। मनसि प्रश्नः संजायते -किं वास्तविकतया संस्कृतं संगणकीयम् न वा ? अस्य प्रश्नस्य उत्तरं न केवलं संस्कृतज्ञः अथवा संगणक-विशारदः दातुं शक्नोति अपितु यः उभयोः विद्ययोः पारंगतः सः एव दातुं सक्षमः भविष्यति।
इदानीं संगणकीये युगे सङ्गणकस्य आवश्यकता सर्वेषु क्षेत्रेषु वर्तते। भारते संपूर्ण -विश्वस्य एक -षष्ठांश- जनाः निवसन्ति । एतेषां कृते सङ्गणकस्य महति आवश्यकता अस्ति। परन्तु एतदर्थं आङ्ग्ल -भाषायाः ज्ञानं अनस्विकार्यम्।
यस्मिन देशे संगणकाय भाषा आदौ प्रस्तुता ,तत्र आङ्ग्ल-भाषायाः का आवश्यकता ? "दिव्यज्ञानम् "इति शीर्षके मया लिखितं यत् -विज्ञान -माध्यमेन दिव्य-ज्ञानस्य विश्लेषणं सर्वथा प्रासङ्गिकम्। अस्माकं देशे दिव्यद्रष्टारः आसन्, तेषु महर्षिणा पाणिनिना लिखिता -संस्कृत-भाषा एव भारतीय-वैज्ञानिकैः संगणकिया भाषा रूपेण रुपान्तरिता भविष्यति अत्र नास्ति संदेहः। अतः संस्कृत-भाषायाः वैज्ञानिक-विश्लेषणं अवश्यं करणीयम् ।
Wow
ReplyDeleteसराहनीय प्रयास
ReplyDelete