Saturday, November 21, 2015

संस्कृतम्


          नमस्ते!
                     
     परिवर्त्तनं सर्वदा अपरिवर्तनियम् । अतः युगानुसारं बालकानां रुचेः परिवर्त्तनं  स्विकार्यम् । सुष्ठुतया  एतत् परिलक्षते यत् आधुनिक-शिक्षण- संस्थासु  विद्यार्थिनां आग्रहः शनैः शनैः संस्कृतात् दूरं गतः । एतादृशं परिवर्त्तनं  कदाचित् न शोभनम् । एतत् तु सत्यं अस्ति यत् कतिपयेेषु  विद्यालयेषु संस्कृतस्य पठन-पाठनं समाप्तं जातम्। विद्यार्थिनां कृते पञ्चमी कक्षातःआरभ्य अष्टमी कक्षा पर्यन्तं संस्कृतं वाध्यतामुलकं अस्ति ।परन्तु कोमलमति  -बालकाः यदा नवमि कक्षां प्रविशन्ति तदा तेषां मनसि अनेके प्रश्नाः संजाताः भवन्ति ।एतेषां प्रश्नानां समुचितानि उत्तराणि प्राप्तुं ते अक्षमाः भवन्ति । यस्मात् कारणात् संस्कृतं आदृतं न भवति ।.विज्ञान -गणित तथा आङ्ग्लभाषायाः प्रभावेन संस्कृतं  निर्जितं भवति ।
                                   विद्यार्थिनां कृते संस्कृतस्य का आवश्यकता वर्तते ? किमर्थं एषा भाषा पठनीया ?इत्यादि अनेकानां प्रश्नानां समाधानाय अहं बहु चिन्तनं अकुर्वम् संप्रति संगणकीय युगे सङ्गणकस्य प्रयोगेण स्व विचारं उपस्थापयितुं चेष्ठितोऽहं ब्लोग इत्यस्य निर्माणाय प्रयासं कृतवान् बहु परिश्रमस्य फ़लस्वरुपः मम एषः लघु प्रयासः। "संस्कृतं प्रति प्रत्यागमनं " अथवा   "COME BACK TO SANSKRIT " इति शीर्षकं आधृत्य मया एषः blog  निर्मितः । यदि अनेन प्रयासेन संस्कृतस्य लाभः भवेत्   तर्हि श्रमसाफ़ल्यम् भविष्यति।
                                                                                        इति शम


2 comments:

PLS COMMENT HERE FOR MORE