Monday, February 1, 2016

दीर्घ वाक्यम्

महाकबिश्रीबाणभट्टबिरचितकादंबरीगद्यकाव्ये जाबाल्याश्रमवर्णनम् - अनति दूरमिव गत्वा सदासन्निहित कुसुमफ़लैः ताल तिलक तमाल हिन्ताल बकुल बहुलैः एला लता कुलित नाली- केरीकलापैः लोल लोघ्र लवली लवङ्ग पल्लवैः उल्लसितचूतरेणुपटलैः अलिकुल झङ्कार मुखर सहकारैः उन्मद कोकिल कुलकलाप कोलाहलिभिः उत्फ़ुल्लकेतकीरजःपुञ्जपिञ्जरैः पूगिलता- दोला
धिरूढवनदेवतैः तारकावर्षमिवाधर्मविनाशपिशुनं कुसुम निकरमनिल चलित मनवरतमतिधवलमृत्सृजद्भिः संसक्तपादपैः काननैरुपगूढं अचकित प्रचकितकृष्णसारशतशवलाभिः उत्फ़ुल्लस्थलकमलिनीलोहिनीभिः मारिचमायामृगवलूनप्ररूढविरुद्द्लाभिः दाशरथिचापकोटि क्षतकन्दगर्तविषमिव तलाभि दण्डकारण्य स्थलिभिरुशोभितप्रान्तं- आगृहित समित्कुशकुसुममृद्भिः अध्ययनमुखरशिष्यानुगतैः सर्वतः प्रविसद्भिः मुनिभिरशून्योपकण्ठंउत्कण्ठितशिखण्डिमण्डलश्रुयमाणजलकलशपूरणध्वानम् अनवरताज्याहुतिप्रितेश्चित्र भानुभिः सशरीरमेव मुनिजन ममरलोकं निनीषुभिः उद्धूयमान धूमलेखाच्छलेनाबद्धयमान स्वर्ग मार्ग गमनसोपानसेतुमिवोपलक्षमाणं आसन्नवर्तिनीभी स्तपोधन संपर्कादिवापगतकालुष्याभिः तरङ्ग परम्परा संक्रान्त रविविम्ब पङ्क्तिभिः तापदर्शनागत सप्तर्षिमलाविगाह्यमानाभिरिव विकच कुमुद वन मृषिजन मुपासितुमवतिर्ण ग्रहगणमिव निषसुद्वहन्ती दीर्घिकाभिः परिवृतं अनिलावनमित शिखराभिः प्रणम्यमानमिव वनलताभिः अनवरतमुक्तकुसुमैरभ्यर्च्यमानमिवपादपैः आवद्ध पल्लवाञ्जलिभि रुपास्य- मानमिव विटपैः उटजाजिर प्रकीर्ण शुष्यच्छयामाकम् उपसगृहीता मलकलवली लवङ्ग कर्कन्धू कदली लकुच चूतपनसतालफ़लम् अध्ययनमुखरबटुजनं अनवरत श्रवण गृहीतवषट्कारवाचालशुककुलं अनेकसरिकोद् घुष्यमाण सुब्रम्हण्यं अरण्य कुक्कुटोपभोज्यमानवैश्वदेवबलिपिण्डं आसन्नवापो कलहंस पोतभुज्यमाननिवारबलिं एणिजिह्वापल्लवोपलिह्यमान मुनिबालकं अग्निकार्यार्द्धदग्धमिसमिसायमान समित्कुशकुसुमं उपल भग्न नालिकेर रसस्निग्धशिलातलम् अचिरक्षुण्णबल्कल रस पाटलभूतलं रक्तचन्दनो- पलिप्तादित्यमण्डल निहित करवीर कुसुमं इतस्ततो विक्षिप्त भस्मलेखा कृतमुनिजन भोजन भूमि परिहारं परिचित शाखामृगकराकृष्टिनिष्कस्यमान प्रवेश्यमान जरदन्धतापसं इभ कलभार्द्धो पभुक्तपतितैः सरस्वतीभुजलताविगलितैः शङ्खवलयैरिव मृणालसकलैः कल्माषितं ऋषिजनार्थमेणकैविषाणविटपालबालकं ऋषिकुमारकाकृष्यमाण वनबराह- दंष्ट्रान्तरालंलग्नशालूकं उपजात परिचयैः कलापिभिः पक्षपुटपवनसंन्धुक्षमाण मुनिहोम- हुताशनम् आरब्धामृतचरुचारुगन्धं अर्द्धपक्वपुरोडाशपरिमलामोदितं अवि च्छिन्ना- ज्यधाराहुति- हुतभुग्झङ्कारमुखरितं उपचर्यमाणातिथिवर्गं पुज्यमानपितृदैवतं अर्च्यमान-हरि-हर-पितामहं उद्दिष्यमानश्राद्धकल्पं व्याख्यायमानयज्ञ विद्यं आलोच्यमान धर्मशास्त्रं वाच्यमान विविधपुस्तकं विचार्यमाण सकलशस्त्रार्थं आरभ्यमाण पर्णशालं उपलिप्यमानाजिरं उपमृज्यमानोटजाभ्यन्तरं आबध्यमानध्यानं सध्यमान मन्त्रं अभ्यस्यमान योगं उपहूयमान वनदेवताबलिम् निर्वर्त्यमान मौञ्जमेखलं क्षाल्यमान वल्कलं उपसंगृह्यमाण समिधं उपसंस्क्रियमाणकृष्णाजिनं गृह्यमाण गवेधुकं शोष्यमाण पुष्करबिजं ग्रथ्यमानाक्षमालं गृह्यमाणत्रिपुण्ड्रकं न्यस्यमान-वेत्रदण्डं सत्क्रियमाण परिव्राजकं आपूर्य्यमाणकमण्डलुं अदृष्टपूर्व कलिकालस्य अपरिचितमनृतस्य अश्रुतपुर्वमनङ्गस्य अब्जयोनि- मिव त्रिभुवनवन्दितं असुरारिमिव प्रकटितनरहरिवराहरुपम् साङ्ख्य मिव कपिलाधिष्ठितं मधुरोपवना- मिवबलावलीढ दर्पितधेनुकं उदयनमिवानन्दितवत्सकुलंकिंपुरुषाधिराज्यमिव मुनिजनगृहित कलशाभिषिच्यमानद्रुमम् निदाघसमयावसानामिव प्रत्यासन्न जलप्रपातं जलधरसमयमिव वनगहनमध्यसुखसुप्तहरिं हनूमन्त- मिव शिला सकल प्रहार संचुर्णिताक्षास्थिसंचयं खाण्डव विनाशो- द्यतार्जुनामिव प्रारब्धाग्निकार्य्यं सुरभिविलेपनधरमपि सतता- विर्भुतधूमगन्धं मातङ्गकुलाध्यासितमपि पवित्रं उल्लसित धूमकेतु शतमपि प्रशान्तोपद्रवं परिपूर्णद्विजपति मण्डल सनाथमपि सदा सन्निहिततरु गहनान्धकारं अतिरमणियमपरमिव ब्रह्मलोकम्  आश्रमम् अपश्यम्                                           


No comments:

Post a Comment

PLS COMMENT HERE FOR MORE